|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.71. अध्यायः 071
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण श्रीकृष्णंप्रति सन्ध्यर्थं हास्तिनपुरगामनप्रार्थनासूचकवचनोपन्यासः ॥ 1 ॥ श्रीकृष्णेन तत्र स्वस्य गमनकथनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
` जनमेजय उवच। 5-71-0x(3613)(34323)
प्रयाते सञ्जये साधौ कौरवान्प्रति वै तदा।
किं चक्रुः पाण्डवास्तत्र मम पूर्वपितामहाः ॥ 5-71-1(34324)
एतत्सर्वं द्विजश्रेष्ठ विस्तरं मम सत्तम।
कथयस्व प्रयत्नेन श्रोतुमिच्छामि पण्डित ॥ 5-71-2(34325)
वैशम्पायन उवाच। 5-71-3x(3614)
सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः।
अर्जुनं भीमसेनं च माद्रीपुत्रौ च भारत ॥ 5-71-3(34326)
विराटं द्रुपदं चैव केकयानां महारथान्।
अब्रुवीदुपसङ्गम्य शङ्खचक्रगदाधरम् ।
अभियाचामहे गत्वा प्रयातुं कुरुसंसदम् ॥ 5-71-4(34327)
यथा भीष्मेण द्रोणेन बाह्लीकेन च धीमता।
अन्यैश्च कुरुभिः सार्धं न युध्येमहि संयुगे ॥ 5-71-5(34328)
एष नः प्रथमः कल्प एतन्निश्रेय उत्तमम् ।
एवमुक्ताः सुमनसस्तेऽभिजग्मुर्जनार्दनम् ॥ 5-71-6(34329)
पाण्डवैः सह राजानो मरुत्वन्त इवामराः।
तदा च दुःसहाः सर्वे सदस्यास्ते नरर्षभाः ॥ 5-71-7(34330)
जनार्दनं समासाद्य कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीत्परवीरध्नं दाशार्हं पाण्डुनन्दनः ॥' 5-71-8(34331)
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ॥ 5-71-9(34332)
त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम् ।
धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे ॥ 5-71-10(34333)
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम्।
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥ 5-71-11(34334)
श्रीभगवानुवाच। 5-71-12x(3615)
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् ।
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ॥ 5-71-12(34335)
युधिष्ठिर उवाच। 5-71-13x(3616)
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्।
एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ॥ 5-71-14a` मृदुपूर्वं साममिश्रं सममुग्रं च माधव ।
न कतृं न्यायमास्थाय गर्हिताश्च ततो वयम् ॥' 5-71-13(34336)
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः।
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ॥ 5-71-15(34337)
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति।
लुब्धः पापेन मनसा चरन्नसममात्मनः ॥ 5-71-16(34338)
यत्तद्द्वादशवर्षाणि वनेषु ह्युषिता वयम्।
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ॥ 5-71-17(34339)
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो।
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ॥ 5-71-18(34340)
गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति ।
वश्यत्वात्पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनं ॥ 5-71-19(34341)
सुयोधनमते तिष्ठन्राजाऽस्मासु जनार्दन।
मिथ्याचरति लुब्धः संश्चरन्हि प्रियमात्मनः ॥ 5-71-20(34342)
इतो दुःखतरं किं नु यदहं मातरं ततः।
संविधातुं न शक्नोमि मित्राणां वा जनार्दन ॥ 5-71-21(34343)
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन।
भवता चैव नाथेन पञ्च ग्रामा वृता मया ॥ 5-71-22(34344)
अविस्थलं वृकस्थलं माकन्दी वारणावतम्।
अवसानं च गोविन्द कंचिदेवात्र पञ्चम् ॥ 5-71-23(34345)
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा।
वसेम सहिता येषु मा च नो भरता नशन् ॥ 5-71-24(34346)
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते।
स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किं ॥ 5-71-25(34347)
कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः।
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियं ॥ 5-71-26(34348)
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् ।
श्रीर्हता पुरुषं हन्ति पुरुषस्याधं वधः ॥ 5-71-27(34349)
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः।
अपुष्पादफलाद्वृक्षाद्यथा कृष्ण पतत्रिणः ॥ 5-71-28(34350)
एतच्च मरणं तात उन्मत्तपतितादिव।
ज्ञातयो विनिवर्तन्ते प्रेतसत्वादिवासवः ॥ 5-71-29(34351)
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।
यत्र नैवाऽद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ 5-71-30(34352)
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्।
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ 5-71-31(34353)
ये धनादपकर्षन्ति नरं स्वबलमास्थिताः।
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥ 5-71-32(34354)
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः।
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ॥ 5-71-33(34355)
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्।
दास्यमेके च गच्छन्ति परेषामर्थहेतुना ॥ 5-71-34(34356)
आपदेवास्य मरणात्पुरुषस्य गरीयसी।
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ॥ 5-71-35(34357)
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्मवत्।
समन्तात्सर्वभूतानां न तदत्येति कश्चन ॥ 5-71-36(34358)
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः।
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥ 5-71-37(34359)
स तदाऽऽत्मापराधेन संप्राप्तो व्यसनं महत्।
सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन ॥ 5-71-38(34360)
न चास्य सर्वशास्राणि प्रभवन्ति निबर्हणे ।
सोऽभिक्रुध्याति भृत्यानां सुहृदश्चाभ्यसूयति ॥ 5-71-39(34361)
तत्तदा मन्युरेवैति स भूयः संप्रमुह्यति।
स मोहवशमापन्नः क्रूरं कर्म निषेवते ॥ 5-71-40(34362)
पापकर्मतया चैव सङ्करं तेन पुष्यति।
सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ॥ 5-71-41(34363)
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति।
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति ॥ 5-71-42(34364)
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते ।
शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ॥ 5-71-43(34365)
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते।
श्रीमान्स यावद्भवति तावद्भवति पूरुषः ॥ 5-71-44(34366)
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा।
नाधर्मे कुरुते बुद्धिं न च पापे प्रवर्तते ॥ 5-71-45(34367)
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्।
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ॥ 5-71-46(34368)
ह्रीमानवति देवांश्च पितॄनात्मानमेव च।
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ॥ 5-71-47(34369)
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन।
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ॥ 5-71-48(34370)
ते वयं न श्रियं हातुमलं न्यायेन केनचित्।
अत्र नो यतमानानां वधश्चेदपि साधु तत् ॥ 5-71-49(34371)
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव।
प्रशान्ताः समभूताश्च श्रियं तामश्रुवीमहि ॥ 5-71-50(34372)
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया।
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यवाप्नुमः ॥ 5-71-51(34373)
ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः।
तेषामप्यवधः कार्यः किंपुनर्ये स्युरीदृशाः ॥ 5-71-52(34374)
ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः।
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ॥ 5-71-53(34375)
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः।
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ॥ 5-71-54(34376)
शूद्रः करोति शुश्रूषां वैश्मा वै पण्यजीविकाः ।
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ॥ 5-71-55(34377)
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति।
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ॥ 5-71-56(34378)
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे।
बलं तु नीतिमाधाय युध्ये जयपराजयौ ॥ 5-71-57(34379)
नात्मच्छन्देन भूतानां जीवितं मरणं तथा।
नाप्यकाले सुखं प्राप्यं दुःखं वाऽपि यदूत्तम ॥ 5-71-58(34380)
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत।
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥ 5-71-59(34381)
जयो नैवोभयोर्दृष्टो नोभयोश्च पराजयः।
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥ 5-71-60(34382)
सर्वथा वृजिनं युद्धं को ध्नन्न प्रतिहन्यते।
हतस्य च हृषीकेश समौ जयपराजयौ ॥ 5-71-61(34383)
पराजयश्च मरणान्मन्ये नैव विशिष्यते।
यस्य स्याद्विजयः कृष्ण तस्यप्यपचयो ध्रुवम् ॥ 5-71-62(34384)
अन्ततो दयितं ध्नन्ति केचिदप्यपरे जनाः ।
तस्याङ्गबलहीनस्य पुत्रान्भ्रातॄनपश्यतः ॥ 5-71-63(34385)
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते।
ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः ॥ 5-71-64(34386)
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः।
हत्वाऽप्यनुशयो नित्यं परानपि जनार्दन ॥ 5-71-65(34387)
अनुबद्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते।
शेषो हि बलमासाद्य न शेषमनुशेषयेत् ॥ 5-71-66(34388)
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया।
जयो वैरं प्रसृजति दुःखमास्ते पराजितः ॥ 5-71-67(34389)
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ।
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा ॥ 5-71-68(34390)
अनिर्वृत्तेन मनसा ससर्प इव वेश्मनि।
उत्सादयति यः सर्वं यशसा स विमुच्यते ॥ 5-71-69(34391)
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति।
न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि ॥ 5-71-70(34392)
आख्यातारश्च विद्यन्ते पुमांश्चेद्विद्यते कुले।
न चापि वैरं वैरेण केशव व्युपशाम्यति ॥ 5-71-71(34393)
हविषाऽग्निर्यथा कृष्ण भूय एवाभिवर्धते।
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः ॥ 5-71-72(34394)
अन्तरं लिप्समानानामयं दोषो निरन्तरः ।
पौरुषे यो हि बलवानाधिर्हृदयबाधनः।
तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत् ॥ 5-71-73(34395)
अथवा मूलघातेन द्विषतां मधुसूदन ।
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ॥ 5-71-74(34396)
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः।
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ॥ 5-71-75(34397)
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्।
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ॥ 5-71-76(34398)
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्।
सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः ॥ 5-71-77(34399)
प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते।
तच्छुनामिव संपाते पण्डितैरुपलक्षितम्॥ 5-71-78(34400)
लाङ्गूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम् ।
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ॥ 5-71-79(34401)
तत्र यो बलवान्कृष्ण जित्वा सोत्ति तदामिषम्।
एवमेव मनुष्येषु विशेषो नास्ति कश्चन ॥ 5-71-80(34402)
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्।
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ॥ 5-71-81(34403)
पिता राजा च वृद्धश्च सर्वथा मानमर्हति।
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ॥ 5-71-82(34404)
पुत्रस्नेहश्च बलवान्धृतराष्ट्रस्य माधव ।
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ॥ 5-71-83(34405)
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् ।
कथमर्थाच्च धर्माच्च न हीयेमहि माधव ॥ 5-71-84(34406)
ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन।
उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम ॥ 5-71-85(34407)
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्।
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ॥ 5-71-86(34408)
वैशम्पायन उवाच। 5-71-87x(3617)
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः ।
उभयोरेव वामर्थे यास्यामि कुरुसंसदम्॥ 5-71-87(34409)
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् ।
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ॥ 5-71-88(34410)
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान्।
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ॥ 5-71-89(34411)
युधिष्ठिर उवाच। 5-71-90x(3618)
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति ।
सुयोधनः सूक्तमपि न करिष्यति ते वचः ॥ 5-71-90(34412)
समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम्।
तेषां मध्यावतरणं तव कृष्ण न रोचये ॥ 5-71-91(34413)
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम्।
न च सर्वामरैश्वर्यं तव द्रोहेण माधव ॥ 5-71-92(34414)
श्रीभगवानुवाच। 5-71-93x(3619)
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्।
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षितां ॥ 5-71-93(34415)
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।
क्रुद्धस्य संयुगे स्थातुं सिंहस्येवेतरे मृगाः । 5-71-94(34416)
अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम्।
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ॥ 5-71-95(34417)
न जातु गमनं पार्थ भवेत्तत्र निरर्थकम् ।
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता 5-71-96(34418)
` एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् ।
भातॄणां समवेतानां सकाशे पुरुषोत्तमम् ' ॥ 5-71-97(34419)
युधिष्ठिर उवाच। 5-71-98x(3620)
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्।
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ 5-71-98(34420)
विष्वक्सेन कुरून्गत्वा भरताञ्शमयन्प्रभो।
यथा सर्वे सुमनसः सह स्याम सुचेतसः ॥ 5-71-99(34421)
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः।
सौहृदेनाविशङ्ख्योऽसि स्वस्ति प्राप्नुहि भूतये ॥ 5-71-100(34422)
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान्वेत्थ भाषितुम्।
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ॥ 5-71-101(34423)
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः।
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ॥ ॥ 5-71-102(34424)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकसप्ततितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-71-10 अनुयुह्क्ष्महे प्रार्थयामहे ॥ 5-71-15 विवृतान्तरः प्रकाशित्तभावः ॥ 5-71-17 छद्मनः अज्ञातचर्यया ॥ 5-71-18 स्थातास्थास्यति । नः अस्माकम्। तस्मिन् चतुर्दशे दर्षे स्वं राज्यं गृह्णीतेत्यस्मिन्। न अहास्म न त्यक्तवन्तो वयम्॥ 5-71-21 मातरं संविधातुं सम्यक् पोषयितुम्। मित्राणां कर्मणिषष्ठी ॥ 5-71-23 अवसीयते संस्थीयतेऽस्मिन्नित्यवसानम् यावज्जीवकं वासस्थानम् ॥ 5-71-24 नः अस्माकं कृते भरताः भरतवंश्या भीष्मादयः मानशन् मानश्यन्तु ॥ 5-71-28 द्विजाः अर्थिनः ॥ 5-71-29 प्रेतसत्वात् प्रगतबुद्धेर्मृतादित्यर्थः ॥ 5-71-31 धर्मं धर्मकारणम्। सर्वं यज्ञदानादि ॥ 5-71-35 आपत्पदार्थमाह श्रियो विनाश इति। तद्धि श्रीर्हि ॥ 5-71-40 तत्तदा सर्वदेत्यर्थः ॥ 5-71-48 इदं ह्रीमन्तं । ते त्वया ॥ 5-71-55 कपालं भिक्षापात्रम् ॥ 5-71-57 नीतिमेव बलं कृत्वा युध्ये योत्स्ये। जयपराजयौ तु आत्मच्छन्देन स्वेच्छया न भवतः। तथा तद्वत् भूतानां जीवितं मरणं च स्वेच्छया न स्तः ॥ 5-71-58 नीतिमेव बलं कृत्वा युध्ये योत्स्ये। जयपराजयौ तु आत्मच्छन्देन स्वेच्छया न भवतः। तथा तद्वत् भूतानां जीवितं मरणं च स्वेच्छया न स्तः ॥ 5-71-65 अनुशयः पश्चात्तापः ॥ 5-71-66 शेषः शत्रोः । शेषं स्वस्य ॥ 5-71-69 अनिर्वृत्तेन अस्वस्थेन ॥ 5-71-72 अत इति। यतः अन्तरं छिद्रं नित्यं अपरिहार्थं अतो हेतोः अन्ततोऽन्यथा स्वस्य शत्रोर्वा नाशं विना शान्तिर्नास्ति ॥ 5-71-73 अयं दोषः नाशाख्यः ॥ 5-71-74 इद्धा प्रदीप्ता ॥ 5-71-75 त्यागेन राज्यस्येतिः शेषः। तदृते राज्यं विना। द्विषतां संशयात् किं शत्रवश्छिद्रे भ्रष्टश्छिद्रे प्रहरिष्यन्ति उत उपेक्षां करिष्यन्तीत्येवंरूपात् । आत्मनः भ्रष्टश्रीकस्य सद्यः समुच्छेदात् नाशसंभवात्। अतो राज्यत्यागो न युक्त इति भावः ॥ 5-71-78 दारुणं युद्धम् तच्छुनामिव निन्द्यमित्यर्थः ॥ 5-71-79 क्ष्वेडा ध्विकौटिल्यम्। विवर्तनं भूमौ लुष्ठनम्। दन्तदर्शनं मुखस्य व्यादानेन ॥ 5-71-83 प्रहास्यति न स्वीकरिष्यति ॥ 5-71-99 तथा वदेति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|